वांछित मन्त्र चुनें

अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते । अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥

अंग्रेज़ी लिप्यंतरण

ayam asmāsu kāvya ṛbhur vajro dāsvate | ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam ||

पद पाठ

अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते । अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥ १०.१४४.२

ऋग्वेद » मण्डल:10» सूक्त:144» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:2» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयम्) यह इन्दु-वीर्यपदार्थ-ब्रह्मचर्य (अस्मासु) हमारे निमित्त (काव्यः) कवियों मेधावियों द्वारा कमनीय या कवि बनानेवाला (ऋभुः) आयु का प्रकाशक (दास्वते वज्रः) क्षयकारक रोग के लिये वज्र-उसका नाशक है (अयम्) यह (ऊर्ध्वकृशनम्) उत्कृष्टरूप (मदं बिभर्ति) हर्ष को धारण करता है (ऋभुः-न) मेधावी जन का जैसा (कृत्व्यं मदम्) करने योग्य हर्ष होता है, उस हर्ष को धारण करता है ॥२॥
भावार्थभाषाः - ब्रह्मचर्य मनुष्य को मेधावी बनाता है, आयु देता है, ऊँचा हर्षकारक रोगनाशक है, उसको धारण करना चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयम्) एष पूर्वोक्त इन्द्रः-रेतोरूपो वीर्यपदार्थः (अस्मासु) अस्मन्निमित्तम् ‘निमित्तसप्तमी’ (काव्यः) कविभिर्मेधाविभिः कमनीयः “काव्यं कविभिर्मेधाविभिः कमनीयम्” [ऋ० ५।३९।५ दयानन्दः] यद्वा कविं मेधाविनं सम्पादयतीति मेधाविसम्पादकः “सम्पादिन्यर्थे ष्यञ् छान्दसः” (ऋभुः) आयुष्प्रकाशकस्तेजः-प्रकाशकः “ऋभुः-आयुष्प्रकाशकः” [ऋ० १।११०।७ दयानन्दः] (दास्वते वज्रः) “दसु उपक्षये” णिजन्तात् क्विप् दास् तद्वते रोगाय वज्रो वर्जयिता नाशकोऽस्ति (अयम्) एष हि (ऊर्ध्वकृशनं मदं बिभर्ति) ऊर्ध्वरूपं “कृशनं रूपनाम” [निघ० ३।७] हर्षं धारयति (ऋभुः-न कृत्व्यं मदम्) ऋभोः “सुपां सु...” [अष्टा० ७।१।३९] इति षष्ठीस्थाने सुः, मेधाविनो जनस्य यथा कर्त्तव्यो हर्षो भवेत् तथा ते करणयोग्यं हर्षं धारयति ॥२॥